3.1.1 sankat nashan stotra

 
।। गणपती संकटनाशन स्तोत्र ।।
 
 
श्रीगणेशाय नम: ॥ नारद उवाच ॥


प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्त्यावासं स्मरेन्नित्यमायु:कामार्थसिद्धये ॥ १ ॥

प्रथमं वक्रतुंडं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥

लंबोदरं पंचमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजत्र्च धूम्रवर्णं तथाष्टमम् ॥ ३ ॥

नवमं भालचंद्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥

द्वादशैतानि  नामानि त्रिसंध्यं य: पठेन्नर: । न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥ ५ ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६ ॥

जपेद् गणपति स्तोत्रं षड्‌भिर्मासै: फल लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥ ७ ॥

अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत् । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥ ८ ॥

। इति श्रीनारदपुराणे संकष्टनाशनं नाम गणेशस्तोत्रं संपूर्ण्म् ।



※   ※   ※   ※  

No comments:

Post a Comment