।। श्री गणपतीत्यर्वशीर्ष ।।
॥ श्रीगणेशाय नमः ॥
शांति मंत्राः (आवर्तन करत असल्याय्स पुढील मंत्र एकदा म्ह्णावे )
ॐ भद्रं कर्णेभिः श्रृणुयाम देवा । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः ।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पुषा विश्वैवेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ।
अथर्वशीर्ष (आवर्तन करत असल्याय्स पुढील मंत्र ११ / २१ / १०१ / १००१ वेळा म्ह्णावे )
ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि ।
त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि ।
त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्मासि नित्यम् ॥१॥
ऋतं वच्मि । सत्यं वच्मि ॥२॥
अव त्वं माम् । अव वक्तारम् ।
अव श्रोतारम् । अव दातारम् ।
अव धातारम् । अवानूचानमवशिष्यम् |
अव पश्चात्तात् । अव पुरस्तात् ।
अवोत्तरात्तात् । अव दक्षिणात्तात् ।
अव चोर्ध्वात्तात् । अवाधरात्तात् ।
सर्वतो मां पाहि पाहि समन्तात् ॥३॥
त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः ।
त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥
सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति ॥
सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्पदानि ॥५॥
त्वं गुणत्रयातीतः । त्वं देहत्रयातीतः ।
त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥६॥
गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् । अनुस्वारः परतरः ।
अर्धेन्दुलसितम् । तारेण ऋद्धम् ।
एतत्तव मनुस्वरूपम् । गकारः पूर्वरूपम् ।
अकारो मध्यमरूपम् । अनुस्वारःश्चान्त्यरूपम् ।
बिन्दुरूत्तररूपम् । नादः सन्धानम् ।
संहितासन्धिः । सैषागणेशविद्या ।
गणकऋषिः । निचृद्गायत्री छन्दः ।
गणपतिर्देवता । ॐ गं गणपतये नमः ॥७॥
एकदन्ताय विद्महे । वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ॥८॥
एकदन्तंचतुर्हस्तंपाशमङ्कुशधारिणम् । रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात् परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥९॥
नमो वातप्रतये । नमो गणपतये । नमः प्रमथपतये ।
नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने
शिवसुताय श्रीवरदमूर्तये नमः ॥१०॥
फलश्रुती (आवर्तन करत असल्याय्स पुढील मंत्र शेवटी एकदाच म्ह्णावे )
एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ।
स सर्वतः सुखमेधते । स सर्वविघ्नैर्न बाध्यते ।
स पंचमहापापात् प्रमुच्यते । सायमधीयानो दिवसकृतं पापं नाशयति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायंप्रातः प्रयुंजानो अपापो भवति ।
सर्वत्राधीयानोऽपविघ्नोभवति । धर्मार्थकाममोक्षं च विन्दति ।
इदमथर्वशीर्षमशिष्याय न देयम् । यो यदि मोहाद् दास्यति स पापीयान् भवति ।
सहस्त्रावर्तनात् । यं यं काममधीते तं तमनेन साधयेत् ॥११॥
अनेन गणपतिमभिषिञ्चति । स वाग्मी भवति ।
चतुर्थ्यामनश्वन्जपति । स विद्यावान भवति ।
इत्यथर्वणवाक्यम् । ब्रह्माद्यचरणं विद्यात् ।
न बिभेति कदाचनेति ॥१२॥
यो दूर्वाङ्कुरैर्यजति । स वैश्रवणोपमो भवति ।
यो लाजैर्यजति । स यशोवान् भवति ।
स मेधावान् भवति । यो मोदकसहस्त्रेण यजति ।
स वांछितफलमवाप्नोति । यः साज्यसमिद्भिर्यजति ।
स सर्वं लभते स सर्वं लभते ॥१३॥
अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जपत्वा ।
सिद्धमन्त्रो भवति । महाविघ्नात् प्रमुच्यते । महादोषात प्रमुच्यते ।
महापापात् प्रमुच्यते । स सर्वविद् भवति स सर्वविद् भवति ।
य एवं वेद । इत्युपनिषत् ॥१४॥
No comments:
Post a Comment